Critical Grammatical Analysis of Naisadhiyacharita Canto I

अनुसन्धाता - प्रतीक दत्तः मार्गनिर्देशकः - सि.उपेन्द्र रावः(विशिष्टसंस्कृताध्यनकेन्द्रम् जे.एन.यू )
भूमिका
नैषधीयचरितमहाकाव्यप्रणेता अमरवाणीसाहित्यसुधीशिरोरत्नविश्वविदितयशा कविचक्रचूडामणिस्तार्किकजग –
दालंकारो लोकोत्तरप्रतिभापावनः श्रीहर्षो वैदुष्यातुलविभावितनिबन्धप्रणयननिपुणः शास्त्रीयस्य पाण्डित्यस्य कवित्वस्य चानुपम एव रत्नाकर आसीदित्यत्र नास्ति काचित् संशीतिः।
कविवरेण्यस्यास्य जनकः श्रीहीरस्तथा जननी च मामल्लदेवी आस्ताम् । यथा काव्यकर्मण्यधिगतकवित्वप्रकर्षो श्रीहर्षः स्वस्य नैषधीयचरितमहाकाव्यस्य प्रत्येकसर्गस्यान्तिमश्लोकस्य पूर्वार्धे स्वयमात्मना निगदति –
श्रीहर्षः कविराजराजिमुकुटालंकारहीरः सुतं ।
श्रीहरिः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ॥

केचित् विद्वांसः ’माम् + अल्लदेवी ’ इत्येवं रूपेण पदच्छेदं विधाय महाकवेः श्रीहर्षस्य मातुः नाम ’अल्लदेवी’ इतीत्थंमङ्गीकुर्वन्ति । परमन्येषां विदुषां मतं विद्यते यत् ’वातापि’ इत्यस्यान्तिके ’मामल्लपुर’ इत्यभिधानान्वितं नगरं विविधविद्याविभूषितस्य श्रीहर्षस्य जनन्याः निवासस्थानम्, तमाधारीकृत्य च तस्य मातुः नाम ’मामल्लदेवी’ इत्यभवदिति ।
कविपुंगवस्यास्य जनकः श्रीहरिः काशिनिवासिनो गढवालवंश प्रसूतस्य श्रीविजयचन्द्रस्य सभापण्डित आसीत्। जातुचित् केनापि विदुषा जितः श्रीहरिः स्वमरणकाले निजजेतारं पण्डितं पराजेतुं आत्मनः तनयं श्रीहर्षं संप्रेरितवान् । तदाज्ञावशवर्ती श्रीहर्षः वर्षैकं यावत् गङ्गातटे चिन्तामणिमन्त्रजपं सविशेषं विधाय विशिष्टां प्रतिभां समवाप । अधिगतवैदुष्यप्रकर्षोऽसौ श्रीहर्षः सभाभवनं सम्प्रविश्य भूपतेः विजयचन्द्रस्य प्रशंसायामधस्ताल्लिखितं श्लोकं श्रावयामास –
गोविन्दनन्दनतया च वपुःश्रिया च
मामस्मिन् नृपे कुरुत कामधिय तरुण्यः ।
अस्त्रीकरोति जगतां विजये स्मरः स्त्री –
रस्त्री जनः पुनरनेन विधीयते स्त्री ॥

एतत्कृतीनां कश्मीरदेशेषु महती प्रतिष्ठाऽऽसीत् ’काव्यप्रकाशकारः श्रीमम्मटोऽपि मातुलो बभूव ’ इत्येवं रूपात्मिका प्रथितिरपि जगति प्रचलिता विद्यते । कान्यकुब्जाधीश्वरस्य जयचन्द्रस्य सभायां सभापण्डितरूपेण कविवरेण्यस्यास्य प्रभूतं सम्मानमासीदित्यधस्ताल्लिखितश्लोकेन ज्ञायते ---

ताम्बूलद्वयमासनं च लभते यः कान्यकुब्जेश्वराद्
यः साक्षात्कुरुते समाधिषु परं ब्रह्मप्रमोदार्णवम् ।
यत्काव्यं मधुवर्षि धर्षितपरास्तर्केषु यस्योक्तयः
श्रीहर्षकवेः कृतिः कृतिमुदे तस्याभ्युदीयादियम् ॥ (२२।१५५)
जयचन्द्रपितुर्विजयचन्द्रस्य प्रशंसायामनेन लिखितो ग्रन्थः विजयप्रशस्तिनामा सम्प्राप्यते । जयचन्द्रो गढवालवंश्यो नृपः आसीत् । विजयचन्द्रजयचन्दौ सम्मेल्य ११५६ ईशवीयतः ११९३ ई० पर्यन्तं राज्यं चक्रतुः। एतावता श्रीहर्षस्य स्थितिकालोऽपि द्वादशशतकोत्तरार्द्धभागो सुधीभिः निश्चीयते ।

महाकवेः श्रीहर्षस्य पाण्डित्यम्
चिन्तामणिचिन्तनाधिगतवैदुष्यप्रकर्षान्वितो महाकविः श्रीहर्षः प्रभूतं पाण्डित्यं स्वस्मिन् धत्ते । महाकवेरस्य या प्रतिभासीमान्तिनी दर्शनरहस्यानि सरलीकरोति सैव शृङ्गारधारापि प्रवाहयति । यथा स्वयमेव निगदितं श्रीहर्षेण -
साहित्ये सुकुमारवस्तुनि दृढन्यायग्रहग्रन्थिले
तर्के वा मयि संविधातरि समं लीलायते भारती ।
शय्या वाऽऽस्तु मृदूत्तरच्छदवती दर्भाङ्कुरैरास्तृता
भूमिर्वा ह्रदयङ्गमो यदि पतिस्तुल्या रतिर्योषिताम् ॥
’यः साक्षात्कुरुते समाधिषु परं ब्रह्मप्रमोदार्णवम् ’ इत्यनेन विज्ञायते यत् कविपुंगवोऽयं यथैव दार्शनिककविस्तैव योगीति । तार्किकवरेण्यो श्रीहर्षः स्वीयस्य शास्त्रज्ञानस्य परिचयं प्रतिसर्गं प्रस्तुवन्नपि सप्तदशसर्गे नास्तिकास्तिकसकलदर्शनप्रवीणत्वं व्याकरणनिष्णातत्वं च सडिण्डिमनादं सविशेषं समुद्घोषितवान् । वेदान्तविद्यानिष्णातः कविवरोऽयं नैयायिकानां वैशेषिकानाञ्चोपरि स्वकवितायामप्युपहसति स्म । निदर्शनार्थं यथा ---
मुक्तये यः शिलात्वाय शास्त्रमूचे सचेतसाम् ।
गोतमं तमवेक्ष्यैव यथा वित्थ तथैव सः ॥
ध्वान्तस्य वामोरु विचारणायां वैशेषिकं चारुमतं मतं मे ।
औलूकमाहुः खलु दर्शनं तत् क्षमं तमस्तत्त्वनिरूपणाय ॥
सर्ववेदान्तमतेषु अद्वैततत्त्वप्रतिपादकं मतमेव साधु सर्वातिशायि चेति प्रतिपादयन् श्रीहर्षः स्वीये नैषधीयचरिते निगदति ---
साप्तुं प्रयच्छति न पक्षचतुष्टये तां
तल्लाभशंसिनि न पञ्चमकोटिमात्रे ।
श्रद्धां दधे निषधराड्विमतौ मताना –
मद्वैततत्त्व इव सत्यतरेऽपि लोकः ॥ १
व्याकरणनिष्णातोऽयं कविवरेण्यः वैयाकरणानामुपरि चारुतया उपहसन् स्वीये नैषधीयचरितकाव्ये कथयति –
भङ्क्तुं प्रभुर्व्याकरणस्य दर्पं पदप्रयोगाध्वनि लोक एषः ।
शशो यदस्यास्ति शशी ततोऽयमेवं मृगोऽस्यास्ति मृगिति नोक्तः ॥२
अन्यच्च –
उभयी प्रकृतिः कामे सज्जेदिति मुनेर्मतः ।
अपवर्गे तृतीयेति भणतः पाणिनेरपि ॥ ३
पाण्डित्यप्रकर्षान्वितोऽयं कविवरेण्यो महावैयाकरण आसीदित्यत्र नास्ति कश्चित् संशयावकाशः । विदुषां प्रीतये निदर्शनार्थमत्र द्वौ श्लोकौ समुद्ध्रियेते –
क्रियेत चेत्साधुविभक्ति चिन्ता व्यक्तिस्तदा सा प्रथमाभिधेया ।
या स्वैजसां साधयितुं विलासैस्तावत्क्षमा नामपदं बहु स्यात् ॥४
अस्मिन् श्लोके हंसमुखेन भूपतेः नलस्य वर्णनं कारयन् महाकविः ’अपदं न युञ्जीत’ ’एकवचनमुत्सर्गतः करिष्यते ’ इति वैयाकरणसिद्धान्तावभिमुखं जनान् संकेतयति ।


______________________________
१. नैषधीयचरितमहाकाव्यम् (१३ ।२६)
२. ibid (२२। ८४)
३. ibid (१७।७०)
४. ibid (३।२३)

अन्यच्च –
स्वं नैषधादेशमहो विधाय कार्यस्य हेतोरिति नानलः सन् ।
किं स्थानिवद्भावमधत्त दुष्टं तादृक्कृत व्याकरणः पुनः सः ॥५
अत्र महावैयाकरणः श्रीहर्षः शक्रादीनां नरपतेः नलस्य रूपं धारणं कृत्वा भैम्याः स्वयम्वरे आगमनस्य वर्णनं कुर्वन् ’स्थानिवदादेशोऽनल्विधौ’ इति पाणिनीयसूत्राभिमुखं सङ्केतं विदधाति ।
नरपतिना नलेन विहिते सपर्याप्रसङ्गे यद्वर्णनं समुपलभ्यते, तदनुसारेण कविपुंगवोऽयं रामनामानुरागी परमवैष्णव इत्यपि सिद्ध्यति । निदर्शनार्थमत्र द्वित्राः श्लोकाः समुपस्थाप्यन्तेऽधस्तात् –
लीलायाऽपि तव नाम जना ये गृह्णाते नरकनाशकरस्य ।
तेभ्य एव नरकैरुचिता भीस्ते तु बिभ्यतु कथं नरकेभ्यः ॥६
अस्मदाद्यविषयेऽपि विशेषे रामनाम तव धाम गुणानाम् ।
आन्वबन्धि भवतैव तु कस्मादन्यथा ननु जनुत्रितयेऽपि ॥७
 नैषधीयचरितमहाकाव्यस्य रसच्छन्दोऽलंकारभावादिविवेचनम् –
महाकवेः श्रीहर्षस्य नैषधीयचरिते प्रधान्येन शृङ्गाररसस्य गौणतयाऽन्येषां रसानां वर्णनं समुपलभ्यते । शृङ्गाररसेऽपि विप्रलम्भशृङ्गार-सम्भोगशृङ्गारञ्चेति द्वितयं समानरूपेण राजते । पाञ्चाल्यादिरीतिष्वपि वैदिर्भीरीतेः प्राधान्येन अत्र द्योतते । सकलशास्त्रपारदृश्वा कविवरोऽयं स्वकीयस्य नैषधीयचरितस्य संरचना उपजाति-वंशस्थ-वसन्ततिलका-वैतालीय-रथोद्धता-हरिणी-शार्दूलविक्रीडित-मन्दाक्रान्तास्रग्धराप्रभृत्येकोन –
विंशतिसंख्यकेषु वृत्तेषु समापादिता । अलंकारेषु ’श्लेष-अनुप्रास-अर्थान्तरन्यास-अतिशयोक्ति-उपमा-दृष्टान्त-निदर्शनादीनां भूयांसः प्रयोगाः यत्र यत्र संदृश्यते । उत्प्रेक्षाणामपि चमत्कारोऽस्य नितान्तह्रद्यः ।
निदर्शनार्थं यथा –
यदस्य यात्रासु बलोद्धतं रजः स्फुरत्प्रतापानलघूममञ्जिम ।
तमेव गत्वा पतितं सुधाम्बुधौ दधाति पङ्कीभवदङ्कतां विधौ ॥

__________________________________
१.नैषधीयचरितमहाकाव्यम् – (१०।१३६।)
२. ibid (२७। ९७)
३. ibid (२७।९०)

नैषधीयचरितमहाकाव्यस्य प्रथमसर्गे विशिष्टव्याकरणप्रयोगाः

तत्र तावत् प्रथमश्लोके दृश्यते विशिष्टव्याकरणप्रयोगः। तथा हि उच्यते

निपीय यस्य क्षितिरक्षिणः कथां
तथाद्रियन्ते न बुधास्सुधामपि।
नलस्सितच्छत्रितकीर्तिमण्डलः
स राशिरासीन्महसां महोज्ज्वलः ॥१॥
अत्र दिवादिगणीय पीङ् धातोः ल्यप् प्रत्यते कृते निपीय इति रूपं सिद्ध्यति । अत्र निपीय इत्यत्र भ्वादिगणीय पा धातोः प्रयोगस्तु न भवति । तत्र ’न ल्यपि’ इति सूत्राणुसारेण “घुमास्थागपाजहातिसां हलि” इति सूत्रेण ल्यपि कृते तत्र “ईकार” अनन्तरं न भवति । तेन निपिय इति रूपं सम्भवति । तत्त्वनिष्टं रूपं स्यादेव।
पश्यन्तां तावत् द्वितीयश्लोकः । तत्रैव प्रतिभाति विशिष्टव्याकरणप्रयोगः।
रसैः कथा यस्य सुधावधीरिणी
नलः स भूजानिरभूद् गुणाद्भुतः।
सुवर्णदण्डैकसितातपत्रित-
ज्वलत्प्रतापावलिकीर्तिमण्डलः ॥२॥
अस्मिन् श्लोके विशिष्टव्याकरणप्रयोगः –
सुधावधीरिणी – सुधा (उपपद) + अव + धीर + णिनि ।
सुवर्णदण्डैकसितातपत्रित = “सुवर्णदण्डैकसितातपत्रित” इति शब्दात् ’तत्करोति तदाचष्टे’ इति सूत्रेण णिच् प्रत्यये कृते तदनन्तरं नामधातोः कर्मणि ’क्त’ प्रत्यते च कृते सुवर्णदण्डैकसितातपत्रित इति रूपं सिद्ध्यति ।
समासः – भूजानिः = भूः जाया यस्य स भूजानिः [ भूपतिरित्यर्थः] । अत्र बहुव्रीहि समासः । अत्र “जायाया निङ्” इति सूत्रेण जाया शब्दस्य निङादेशो भवति ।

किञ्च षष्ठश्लोकेऽपि दृश्यते विशिष्टव्याकरणप्रयोगः। तथा हि उच्यते –
दिगीशवृन्दांशविभूतिरीशिता दिशां स कामप्रसभावरोधिनीम् ।
बभार शास्त्राणि दृशं द्वयाधिकां निजत्रिनेत्रावतरत्वबोधिकाम् ॥६॥
विशिष्टव्याकरणप्रयोगः – वस्तुतः श्लोकेऽस्मिन् अवतर शब्दस्य प्रयोगः दृश्यते । अत्र तॄ धातोः ’ऋदोरप्’ इति सूत्रेण अप् प्रत्यये कृते , अव इत्युपसर्गेण सह तर इत्यस्य समासे च कृते अवतर इति रूपं भवति । न ह्यत्र अव इत्युपसर्गपूर्वकात् नॄ धातोः अप् प्रत्यये कृते अवतर इति रूपं सिद्ध्यति। यतो हि अव इत्युपसर्गपूर्वकात् तॄ धातोः “अवेस्तॄस्रोर्घञ्” इति सूत्रेण घञ् प्रत्यये कृते अवतार इति रूपं स्यात् । तत्तु नेष्टम् ।
समास: - निजत्रिनेत्रावतरत्वबोधिकाम् = निजं स्वकीयं यत् त्रिनेत्रावतरत्वं तस्य बोधिकाम् इत्यत्र षष्ठीतत्पुरुषसमासः ।

नवमे च श्लोके दृश्यते तावत् विशिष्टव्याकरणप्रयोगः । तथा हि उच्यते –
स्फुरद्धनुर्निस्वनतद्घनाशुगप्रगल्भवृष्टिव्ययितस्य सङ्गरे ।
निजस्य तेजश्शिखिनः परश्शता वितेनुरङ्गाररमिवायशः परे ॥९॥
विशिष्टव्याकरणप्रयोगः – परश्शताः इति शब्देऽस्मिन् दृश्यते विशिष्टव्याकरणप्रयोगः । शतात् परे इति परश्शताः। अस्मिन् प्रसङ्गे टीकाकारः मल्लिनाथः कथयति यदत्र “पञ्चमी भयेन” इति सूत्रेण योगविभागात् यस्य पदस्यान्ते पञ्चमी विभक्तिर्भवति तस्य पदस्य सुबन्तेन साकं समासो भवतीति नियमेन शतात् इत्यस्य परे इत्यनेन सह समासे कृते “राजदन्तादिषु परम्” इति सूत्रेण शत इत्यस्य परनिपाते कृते , “पारस्करादीनि सत्तायाम्” इति सूत्रेण सुडागमे च कृते परश्शताः इति रूपं सिद्धति ।
समासः – शतात् परे इति परश्शताः इति पञ्चमी तत्पुरष समासः ।

किञ्च प्रथमसर्गस्य षष्टीश्लोकेऽपि विशिष्टव्याकरणप्रयोगः दृश्यते –
चलाचलप्रोथतया महीभृते स्ववेगदर्पानिव वक्तुमुत्सुकम् ।
अलं गिरा वेद किलायमाशयं स्वयं इयस्येति च मौनमास्थितम् ॥ ६०॥
विशिष्टव्याकरणप्रयोगः – अत्र तु चलाचलः इति पदप्रयोगः दृश्यते । अत्र चल् इति धातोः अच् प्रत्यये “चरिचलिपतिवदीनां वा द्विर्वचनमाक्चाभ्यासस्य” इत्यनेन सूत्रेण द्वित्वे संजाते आक् आगमे च कृते “चलाचलः” इति रूपं सिद्धति ।
किञ्च वेद इत्यत्र विद् धातोः लटि “विदो लटो वा” इति सूत्रेण णल् (अ) आदेशे कृते वेद इति रूपं सिद्धति ।
मौनम् – मुनेर्भावः मौनम् – मुनि + अण् प्रत्यये कृते मौनम् इति रूपं भवति ।

सप्तषष्ठीतमे श्लोके विशिष्टव्याकरणप्रयोगः परिलक्ष्यते । उच्यते हि तत्र –
क्षणादथैष क्षणदापतिभ्रमः प्रभञ्जनाध्येयजवेन वाजिना ।
सहैव ताभिर्जनदृष्टिवृष्टिभिर्बहिःपुरोऽभूत् पुरुहूतपौरुषः ॥
अत्र विशिष्टरूपेण समासप्रयोगः दृश्यते । यथा – क्षणदापतिप्रभः = क्षणदायाः रात्रेः पतिः क्षणदापतिः, तस्य प्रभा इव प्रभा यस्य सः इत्यत्र बहुव्रीहिसमासः ।
पुरुहूतपौरुषः – पुरुहूतः इन्द्रः तद्वत् पौरुषं सामर्थ्यं यस्य सः अथवा पुरुहूतस्य पौरुषमिव पौरुषं यस्य स इति बहुव्रीहिसमासः ।
जनदृष्टिवृष्टिभिः = जनानां दृष्टयः , तासां वृष्टयः (षष्ठी तत्पुरुषसमासः) जनदृष्टिवृष्टयः ताभिः ।
तत्र तावदस्मिन् सर्गे शताधिक एकतमे श्लोके विशिष्टा काचित् समासप्रक्रिया परिदृश्यते -
तत्र वर्तते समस्तपदम् - प्रतीष्टकामज्वलदस्रजालकम् = ज्वलन्ति अस्त्राणि ज्वलदस्त्राणि (कर्मधारयः) तेषां जालकम् इति ज्वलदस्त्रजालकम् (षष्ठी तत्पुरुषसमासः) , प्रतीष्टं कामज्वलदस्त्रजालकम् येन सः (बहुव्रीहिः) तम् । तत्र वर्तते अपरञ्च पदम् - अर्थान्वितनामताशया = अर्थेन अन्वितम् – अर्थान्वितम् ( तृतीया तत्पुरुषसमासः), अर्थान्वितं नाम यस्य स अर्थान्वितनामा (बहुव्रीहिः) , तस्य भावः अर्थान्वितनामता, तस्याः आशा (षष्ठी तत्पुरुषः) इति अर्थान्वितनामताशातया ।

इत्येताभिः निदर्शनैः समासेन वयं कथयितुं शक्नुमः यत् चिन्तामणिचिन्तनाधिगतविविधवैदुष्यविभूषितोऽयं महाकविः श्रीहर्षः पाण्डित्ये रसच्छन्दोऽलंकारव्याकरणप्रयोगभावादिविधाने समस्तान् कविवरानतिशेते – इति शम्
SHARE
    Blogger Comment
    Facebook Comment

3 comments:

  1. Thanks for this valuable comment...! Need more suggestion.

    ReplyDelete
  2. simply superb .just change the background image as a webdesigner its my suggestion.but the idea is too gud.carry on all d best.

    ReplyDelete